Browsing Category: Strotra Sangrah

  • All Post
  • Aarti Sangrah
  • Chalisa Sangrah
  • Gyan Ki Baaten
  • Kavach Sangrah
  • Shabar Mantra
  • Strotra Sangrah
  • देवी देवताओं के 108 नाम
Shri Vindhyavasini Stotra

॥ श्री विन्ध्यवासिनी स्तोत्र ॥ ॥ Shri Vindhyavasini Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं सदा मम सुरार्थपरा प्रसन्ना । विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा सिद्धैः सुसेवित-पदाब्जयुगा त्रिरूपा ॥ १॥ वेदैरगम्यमहिमा निजबोधतुष्टा नित्या गुणत्रयपराऽखिलभेदशून्या । एका प्रपञ्चकरणे त्रिगुणोरुशक्तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ २॥ पीयूष-सिन्धु-सुरपादपवाटिरत्नद्वीपे सुनीपवनशालिनि दुष्प्रवेशे । चिन्तामणि-प्रखचिते भवने निषण्णा विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ ३॥ श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता नारायणेन सबलौ मधुकैटभाख्यौ । या सञ्जहार जगतां प्रलये तथा सा विन्ध्येश्वरी वितनुतां सुमनोरथान्मे ॥ ४॥…

Shri Uma Maheshwara Stotra

॥ श्री उमामहेश्वर स्तोत्र ॥ ॥ Shri Uma Maheshwara Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥ नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥ नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥ नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥ नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः…

Shri Tara Stotra

॥ श्री तारा स्तोत्र ॥ ॥ Shri Tara Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे । फुल्लेन्दीवरलोचने त्रिनयने कर्त्रीकपालोत्पले खङ्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥ १॥ वाचामीश्वरि भक्तिकल्पलतिके सर्वार्थसिद्धिश्वरि गद्यप्राकृतपद्यजातरचनासर्वार्थसिद्धिप्रदे । नीलेन्दीवरलोचनत्रययुते कारुण्यवारान्निधे सौभाग्यामृतवर्धनेन कृपयासिञ्च त्वमस्मादृशम् ॥ २॥ खर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्वले व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते । सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्द्धज ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥ ३॥ मायानङ्गविकाररूपललनाबिन्द्वर्द्धचन्द्राम्बिके हुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः । मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा वेदानां नहि गोचरा…

Shri Sita Ram Stotra

॥ श्री सीताराम स्तोत्र ॥ ॥ Shri Sita Ram Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ अयोध्यापुर-नेतारं मिथिलापुर-नायिकाम् । राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंश-समुद्भूतं सोमवंश-समुद्भवाम् ॥ २॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ ३॥ कौसल्यागर्भ-सम्भूतं वेदिगर्भोदितां स्वयम् । पुण्डरीक-विशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥ ४॥ चन्द्रकान्ताननाम्भोजं चन्द्रबिम्बोपमाननाम् । मत्त-मातङ्ग-गमनं मत्त-हंस-वधू-गताम् ॥ ५॥ चन्दनार्द्र-भुजामध्यं कुङ्कुमार्द्र-कुचस्थलीम् । चापालङ्कृत-हस्ताब्जं पद्मालङ्कृत-पाणिकाम् ॥ ६॥ शरणागत-गोप्तारं प्रणिपाद-प्रसादिकाम् । कालमेघनिभं रामं कार्तस्वर-सम-प्रभाम् ॥…

Shri Sidha Lakshmi Stotra

॥ श्री सिद्धिलक्ष्मी स्तोत्र ॥ ॥ Shri Sidha Lakshmi Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः,अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकाली महालक्ष्मी महासरस्वती देवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः । ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः । ॐ ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी…

Shri Sidha Kunjika Stotra

॥ श्री सिद्ध कुञ्जिका स्तोत्र ॥ ॥ Shri Sidha Kunjika Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीकुञ्जिकास्तोत्रमन्त्रस्य सदाशिव ऋषिः, अनुष्टुप् छन्दः,श्रीत्रिगुणात्मिका देवता, ॐ ऐं बीजं, ॐ ह्रीं शक्तिः, ॐ क्लीं कीलकम्, मम सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः । शिव उवाच शृणु देवि प्रवक्ष्यामि कुञ्जिकास्तोत्रमुत्तमम् । येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत् ॥ १॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् । न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥…

Shri Sarasvati Stotra

॥ श्री सरस्वती स्तोत्र ॥ ॥ Shri Sarasvati Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ ॐ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य । ब्रह्मा ऋषिः । गायत्री छन्दः । श्रीसरस्वती देवता । धर्मार्थकाममोक्षार्थे जपे विनियोगः । आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या । सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः, क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना ॥ १॥ श्वेतपद्मासना देवी श्वेतगन्धानुलेपना । अर्चिता मुनिभिः सर्वैः ऋर्षिभिः स्तूयते सदा । एवं ध्यात्वा…

Shri Parvati Stotra

॥ श्री पार्वती स्तोत्र ॥ ॥ Shri Parvati Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ विबुधाधिपतेजिनीशकान्ते वदनाभाजितयामिनीशकान्ते । नवकुन्दविराजमानदन्ते नलिनाभं प्रणमाम्यहं पदं ते ॥ १ ॥ विकचाम्बुरुहां विलासचोरैरतिशीतैः प्रवहद्दयाम्बुपूरैः । शशिशेखरचित्तनृत्तरङ्गैस्तरसालोकय देवि मामपाङ्गैः ॥ २ ॥ अवनीधरनायकस्य कन्ये कृपणं मां परिपालयातिधन्ये । विधिमाधववासवादिमान्ये द्रुतमुन्मूलितभक्तलोकदैन्ये ॥ ३ ॥ कुचनिन्दितशातकुम्भशैले मणिकाञ्चीवलयोल्लसद्दुकूले । परिपालय मां भवानि बाले त्रिजगद्रक्षणजागरूकलीले ॥ ४ ॥ स्वरुचा जिततप्तशातकुम्भे कचशोभाजितकालमेघडम्भे । परिपालय मां त्रसन्निशुम्भे मकुटोल्लासिसुधामयूखडिम्भे ॥ ५ ॥ कुसुमायुधजीवनाक्षिकोणे परितो…

Shri Nav Durga Stotra

॥ श्री नवदुर्गा स्तोत्र ॥ ॥ Shri Nav Durga Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ देवी शैलपुत्री वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारूढां शूलधरां शैलपुत्री यशस्विनीम् ॥ देवी ब्रह्मचारिणी दधाना करपद्माभ्यामक्षमालाकमण्डलू । देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥ देवी चन्द्रघण्टेति पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता । प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥ देवी कूष्मांडा सुरासम्पूर्णकलशं रुधिराप्लुतमेव च । दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥ देवीस्कन्दमाता सिंहासनगता नित्यं पद्माश्रितकरद्वया । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥…

Shri Maha Lakshmi Stotra

॥ श्री महालक्ष्मी स्तोत्र ॥ ॥ Shri Maha Lakshmi Stotra ॥ ॥ ॐ गण गणपतये नमः ॥ श्रीपराशर उवाच सिंहासनगतः शक्रस्सम्प्राप्य त्रिदिवं पुनः । देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥ १॥ इन्द्र उवाच नमस्ये सर्वलोकानां जननीमब्जसम्भवाम् । श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥ २॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम्वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम् ॥ ३॥ त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती ॥ ४॥ यज्ञविद्या महाविद्या गुह्यविद्या च शोभने । आत्मविद्या…

Previous Page
123

© 2024 SanatanDharam.co.in